मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०९, ऋक् २

संहिता

सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुन॒ः प्राय॑च्छ॒दहृ॑णीयमानः ।
अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥

पदपाठः

सोमः॑ । राजा॑ । प्र॒थ॒मः । ब्र॒ह्म॒ऽजा॒याम् । पुन॒रिति॑ । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमानः ।
अ॒नु॒ऽअ॒र्ति॒ता । वरु॑णः । मि॒त्रः । आ॒सी॒त् । अ॒ग्निः । होता॑ । ह॒स्त॒ऽगृह्य॑ । आ । नि॒ना॒य॒ ॥

सायणभाष्यम्

प्रथमो मुख्यः सोमो राजाहृणीयमाणः। पापापगमनेनालज्जमानः। संस्तामेनामकिल्बिशां ब्रह्मजायां पुनर्बृहस्पतये प्रायच्छत्॥ ततो वरुणोऽन्वर्तिता। ऋतिः सौत्रो धातुर्घृणायां वर्तते। तस्य तृचि रूपम्। सोममनुमोदयितासित्। सर्वथा त्वं परिग्रुहाणेति दयामकार्षीत्। तथा मित्रश्च। अनन्तरं होता देवानामाह्वाता मनुष्याणां होमनिष्पादको वाग्निर्हस्तग्रुह्य तां हस्ते ग्रुहित्वा निनाय। आनैशीत्। प्रादादित्यर्थः। हस्तग्रुह्य। नित्यं हस्ते पाणावुपयमने। पा. १-४-७७। इति हस्त शब्दस्य गतिसंज्ञायां ग्रहिना समासेल्यप्। एकारलोपश्छान्दसः। यद्वा। हस्तशब्दात्परस्य ग्रुहेश्छान्दसौ समासल्यपौ॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः