मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०९, ऋक् ३

संहिता

हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् ।
न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

पदपाठः

हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चन् ।
न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥

सायणभाष्यम्

देवा बृहस्पतिमूचुः। हे ब्रुहस्पते अस्या आधिः। आधीयन्त आभरण्यान्यत्रेत्याधिः शरीरम् । उपसर्गे घोः किः। पा. ३-३-९२। इति किप्रत्ययः। अस्याः शरीरं हस्तेनैव ग्राह्यो ग्रुहीतव्यमेव। पुनस्ते देवा इदानीमियं ब्रह्मजायेत्येवावोचन्। अवादिषुः। चशब्दश्चेदर्थे। अत एव निपातैर्य्यद्यदिहन्तेति तिङो निघाताभावः। बॄञ् व्यक्तायां वाचि। लुङि बृवो वचिः। अस्यतिवक्तिख्यातिभ्योऽङ्गिति च्लेरङादेशः। वच उमित्युमागमः। अडागमस्व्वरः। इदवधारणे। एषा ब्रह्मजाया पुरा प्रह्ये। हि गतौ व्रुद्धौ च। कर्मण्यौणादिकः क्विप्। तुगभवश्छान्दसः। ङिद्वचने संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुनाभावः। उदात्तस्वरितयोर्यण इति सुपः स्वरितत्वम्। प्रहिताय त्वया भार्यान्वॆषणार्थं प्रेशिताय दुताय तथा न तस्थे। स्वात्मानम् न प्रकाशयति। तिष्ठतेर्लिटि प्रकाशनस्थेयाख्ययोश्च। पा. १-३-२३। इत्यात्मनेपदम्। श्लाघह्नुङ् स्थाशपाम्। पा. १-४-३४। इति दूतस्य सम्प्रदानसंज्ञा। तत्र दृष्टान्तः। यथा क्शत्रियस्य राज्ञो गुपितं रक्षितं राष्ट्रं राज्यं शत्रवे यथा न प्रकाशयति तद्वदसौ दौर्भाग्ययुक्ततया तस्मै स्वात्मानं न प्रकाशितवती। इदानीं तु तद्राहित्येन प्रकाशमानेयं ब्रह्मजायैवेत्यब्रुवन्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः