दे॒वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः ।
भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
दे॒वाः । ए॒तस्या॑म् । अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षयः॑ । तप॑से । ये । नि॒ऽसे॒दुः ।
भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । उप॑ऽनीता । दुः॒ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥
पूर्वे चिरन्तना देवा आदित्यादय एतस्यां विषयेऽवदन्त। इयं पापरहितत्येत्यवादिषु। तथा ये सप्तर्षयः। अमासस्वरः। सप्तसङ्ख्याका ऋशयस्तपसे तपश्चरणाय निषेदुः निषण्णा बभूवुः। सदेर्लिटि रूपम्। उपसर्गेण समासः। यद्योगादनिघातः। तेऽप्यवादिषु। ततो भीमा शत्रुरूपाणां पापानां भयङ्करी सुकृतवत्येषा जाया ब्राह्मणस्य बृहस्पतेरुपनिता। समीपे देवैः स्थापिता। णीञ् प्रापणे। कर्मणि क्तः। गतिरन्त्न्तर इति गतेः प्रकृतिस्वरत्वम्। तथा हि। तपः प्रभावो दुर्धां दुर्धानामपि परमे व्योमन् व्योमन्युत्तमे स्थाने दधाति। विदधाति खलु। तस्मादेनामपि देवतापरिग्रहरूपस्तपोमहिमा बृहस्पतेरन्तिके स्थापयति॥४॥