मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०९, ऋक् ५

संहिता

ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विष॒ः स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म् ।
तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पति॒ः सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥

पदपाठः

ब्र॒ह्म॒ऽचा॒री । च॒र॒ति॒ । वेवि॑षत् । विषः॑ । सः । दे॒वाना॑म् । भ॒व॒ति॒ । एक॑म् । अङ्ग॑म् ।
तेन॑ । जा॒याम् । अनु॑ । अ॒वि॒न्द॒त् । बृह॒स्पतिः॑ । सोमे॑न । नी॒ताम् । जु॒ह्व॑म् । न । दे॒वाः॒ ॥

सायणभाष्यम्

एवं सप्ततिर्मामलभतेति जुहूः परोक्षतया वद्ति। हे देवाः पूर्वं स ब्रह्मचारी जायाभावेन ब्रह्मचारी चरति। अत एव विषः सर्वेशु यज्ञेषु व्याप्तवान्देवान्वेविशत् स्तुतिभिर्हविभिश्च व्याप्नुवन् देवानामेकमङ्गं भवति। जायापती यज्ञस्य द्वे अङ्गे खलु। वेविषत्। विष्लृव्याप्तौ जौहोतादिकः। निजां त्रयाणां गुणः श्लौ। पा. ७-४-७५। इत्यभ्यासस्य गुणः। शतुर्नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। तेन देवानां परिचरणेन ब्रुहस्पतिर्जायां जुहूनामिकां मामन्वविन्दत्। अनुगम्यालभत। नशब्द उपमार्थे। पूर्वं यथा सोमेन नीतां सोमो ददद्गन्धर्वाय। ऋ. १०-८५-४१। इत्यादि क्रमेण नीतां जुहूं जुहूं यथा लब्धवान् तद्वदिदानीमपि। जुहूम् । हु दानादनयोः। अन्येभ्योऽपि दृश्यत इति क्विप्। जुहोतेर्द्वे चेति द्विर्वचनं दीर्घश्च। उदात्तयणो यल्पूर्वादिति विभक्त्युदात्तत्वे प्राप्ते नोङ् धात्वोरिति प्रतिषेध उदात्त स्वरितयोर्यण इति स्वरितत्वम्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः