पुन॒र्वै दे॒वा अ॑ददु॒ः पुन॑र्मनु॒ष्या॑ उ॒त ।
राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥
पुनः॑ । वै । दे॒वाः । अ॒द॒दुः॒ । पुनः॑ । म॒नु॒ष्याः॑ । उ॒त ।
राजा॑नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒ऽजा॒याम् । पुनः॑ । द॒दुः॒ ॥
लाभहेतुमाह। देवा ब्रह्मजायां जुहूं बृहस्पतये पुनरददुः। वैशब्दः प्रसिद्धवाची। उताप्यर्थे। मनुश्युआ अपि पुनरददुः। एवं देवमनुष्यैः क्रुतं दानं सत्यं यथार्थं कृण्वानाः कुर्वाणाः राजानोऽपि पुनस्तस्मै ददुः। एवमव्यवहार्यनिमित्तं पापमपि व्यनाशयन्निति भावः॥६॥