मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०९, ऋक् ७

संहिता

पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् ।
ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥

पदपाठः

पु॒नः॒ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वी । दे॒वैः । नि॒ऽकि॒ल्बि॒षम् ।
ऊर्ज॑म् । पृ॒थि॒व्याः । भ॒क्त्वाय॑ । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥

सायणभाष्यम्

देवैः। सुपां सुपो भवन्तीति जसस्तृतीयादेशः। देवा निकिल्बिशं अर्थाभावेऽव्ययीभावः। समासस्वरः। तस्याः किल्बिशाभावं कृत्वी। स्नात्व्यादयश्चेति निपातितः। क्रुत्वा ब्रह्मजायां ब्रह्मणो ब्रुहस्पतेर्भार्यां पुनर्दाय पुनर्दत्वा। पुनश्चनसोश्छन्दसि गतिसंज्ञा वक्तव्येति। पा. १-४-६०-२। पुनः शब्दस्य गतिसंज्ञायां समासल्यपौ। न ल्यपि। पा. ६-४-६९। इतीत्वप्रतिषेधः। क्रुदुत्तरपदप्रकृतिस्वरत्वम् । प्रुथिव्या ऊर्जं रसभूतमन्नं हवीरूपम् भक्त्वाय। क्त्वो यक्। पा. ७-१-४७। इति यगागमः। भक्त्वा विभज्योरुगायम् बहुकीर्तिं बहुभिः स्तोतव्यं वा बार्हस्पत्यं यज्ञमुपासते। सेवन्ते॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः