मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११०, ऋक् ३

संहिता

आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषा॑ः ।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥

पदपाठः

आ॒ऽजुह्वा॑नः । ईड्यः॑ । वन्द्यः॑ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ।
त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । सः । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी॑यान् ॥

सायणभाष्यम्

हे अग्ने त्वमस्मत्कर्मन्या याहि। आगच्छ। कीदृशः। आजुह्वानो देवानामाह्वाता। हु दानादनयोः जौ होत्यादिकः। आभ्यस्तस्वरः। ईड्यः। ईदिरध्येषणाकर्मा। अध्येष्यः प्रार्थ्यमानः वन्द्यः स्तोतव्यः वसुभिर्देवैः सजोषाः सह प्रीयमाणः। आगत्य च हे यह्व। महन्नामैतत्। हे महन् स त्वं देव देवानां होताह्वातासि। ततो यजीयान्। यष्टृशब्दादीयसुनि तुरिष्ठेमेयःस्विति त्रुचो लोपः। यष्टृतरः स त्वमिषितोऽस्माभिरध्येशितः प्रार्थितः सन्नेतान्देवान्यक्शि। यज। हविषा पूजय॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः