मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११०, ऋक् ६

संहिता

आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥

पदपाठः

आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उपा॑के॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।
दि॒व्ये इति॑ । योष॑णे॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥

सायणभाष्यम्

सुस्वयन्ती। अय पय गतौ। शतर्युपसर्गस्य सोर्द्विवचनं छान्दसम्। सुष्ठ्वयन्तौ गच्छन्त्यौ। यद्वा। स्वपेर्ण्यन्तस्य वर्णलोपः। सुष्वापयन्त्यौ। यजते यष्टव्ये उपाके उपक्रान्ते उषासानक्तोषश्च नक्तं च। द्वंद्वं उषासोषसः। आ. ६-३-३१। इत्युषासादेशः। देवताद्वन्द्वे चेति पुर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्। अहोरात्रदेव्यौ योनावस्मिन्यज्ञस्थाने नि नितराम् नियमेन वा सदताम् । आसीदताम् । सदेर्लुङि लृदित्त्वाच्च्लेरङ्। कीद्रुश्ये। दिव्ये दिवि भवे योषणे योशिताविव प्रीणयित्र्यौ। यद्वा। योषणे समिते परस्परतोऽविविक्ते। ब्रुहतीर्गुणैर्महत्यौ सुरुक्मे शोभनदीप्ते। रुक्मम्। रोचतेर्मक्प्रत्यये कुत्वे च कृते रूपम्। शुक्रपिशं शोचमानरूपां श्रियमधि दधाने अधिकं धारयन्त्यौ॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः