उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ ।
वन॒स्पति॑ः शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ।
वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥
हे वनस्पते यूप त्मन्या। आत्मशब्दस्य तृतीयैकवचने यादेशः। मन्त्रे ष्वाङ्यादेरात्मन इत्याकारलोपः। आत्मनैवर्तुथर्तावृतौ प्राप्ते काले देवानामर्थाय पाथः पशुलक्षणमन्नमन्नानि च हवींषि समञ्जन् सम्यग्व्यक्तीकुर्वन्नुपावसृज। उपागम्य प्रयच्छ। गतिर्गतौ। पा. ८-१-७०। इति गतेर्निघातः। किञ्च वनस्पतिर्योऽयं यूपः शमितैतन्नामको देवः यद्वा शामित्रोऽग्निर्देवो दीप्यमान आहवनीयाख्योऽग्निश्चैते त्रयो मधुना मधुरेण घृतेन। यद्वा। मधुनोदकेन प्रोक्षणोपनयनादिगतेन घृतेन च। हव्यं हवनयोग्यं स्वदन्तु। स्वादं कुर्वन्तु॥१०॥