मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११०, ऋक् ११

संहिता

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒स्य होतु॑ः प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥

पदपाठः

स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः ।
अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥

सायणभाष्यम्

अयमग्निः सद्यस्तदानीमेव जातो जायमान एव यज्ञं व्यमिमित। विशेषेण निर्मिमीते। उत्पादयति। माङ् माने शब्दे च चौहोत्यादिकः। अत एवायमग्निर्देवानां पुरोगाः प्रथमगामी मुख्योऽभवत्। गमेर्विट् प्रत्यय आत्वे च कृते रूपम्। ततः प्रदिशि प्रकृष्टायां दिशि प्राच्यामृतस्याहवनीयात्मनागतस्यास्य होतुर्होमनिश्पादकस्याग्नेर्वाचि। अत्र वागाश्रय अस्यं लक्श्यते। वाच्यास्ये स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं हविः सर्वे देवा अदन्तु। भक्षयन्तु। इदं सूक्तं यास्केन सम्यगभ्यधायि। नि. ८.५-२१। तदत्रानुसन्धीयताम्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः