मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् १

संहिता

मनी॑षिण॒ः प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒ः सन्ति॑ नृ॒णाम् ।
इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒ः स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥

पदपाठः

मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् ।
इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥

सायणभाष्यम्

मनीषिण इति दशर्चं द्वादशं सूक्तं वैरूपस्याष्ट्रादंष्ट्रस्यार्षम् त्रैष्टुभमैन्द्रम्। तथा चानुक्रम्यते। मनीषिणो दशाष्ट्रादंष्ट्र इति । गतो विनियोगः॥

हे मनीषिणः स्तोतारः मनीषां मनस ईशित्रीं स्तुतिमिन्द्राय प्र भरध्वम् । कुरुत। नृणां कर्मनेतॄणां युश्माकं यथायथा मतयः सन्ति भवन्ति तथा बुद्ध्यनुसारेण स्तुतिं कुरुध्वम्। वयं च कृतेभिः कृतैः सत्यैर्यथार्थ भुतैः स्तोत्रैरिन्द्रमेरयाम। यज्ञं प्रत्यागमयाम। ईर गतौ । ण्यन्तस्य लोट्। हि यतो विदानो जानानः समर्थः स इन्द्रो गिर्वणस्युः गीर्भिर्वनन्ति सम्भजन्त इति गीर्वणसः स्तोतारः। वनतेरसुनि रूपम्। उपपदस्य दीर्घाभावश्छान्दसः। तदन्तात्क्यप्। क्याच्छन्दसीत्युप्रत्ययः। स्तोतॄन्कामयमानः खलु। अतस्तमभिष्टुत॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०