मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् ४

संहिता

इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः ।
पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥

पदपाठः

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ।
पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥

सायणभाष्यम्

इन्द्रोऽङ्गिरोभिरृषिभिर्गृणानः स्तूयमानः सन् महतोऽर्णवस्य। अर्णसः सलोपश्च। का. ५-२-१०९-३। इति वप्रत्ययः। उदकवतो मेघस्य व्रता व्रतानि कर्माणि मह्ना स्वमहिम्नैवामिनात्। अहिंसीत्। मीङ् हिंसायाम्। लुङि मीनातेर्निगम इति ह्रस्वः। ततः पुरूणि चिद्बहून्येव रजांस्युदकानि नि ततान। नीचीनान्यकरोत्। य इन्द्रः सत्यताता सत्यैर्देवैस्तते। यद्वा। सत्यशब्दादपि स्वार्थिकस्तातिल् द्रष्टव्यः। सत्ये। द्युलोके धरुनं धारकं बलं दाधार आधारयत्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०