मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् ५

संहिता

इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् ।
म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥

पदपाठः

इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् ।
म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । स्कम्भ॑नेन । स्कभी॑यान् ॥

सायणभाष्यम्

दिवो द्युलोकस्य पृथिव्याश्च प्रतिमानं महत्त्वेन प्रतिनिधिरिन्द्रो विश्वासर्वाणि सवना सवनानि वेद। सोमपानार्थं जानाति। शुष्णं सर्वस्य शोषकमेतन्नामानमसुरं हन्ति। वाक्यभेदादनिघातः। अपि च महीं चिन्महतीमपि द्यां सूर्येणातनोत्। सर्वत्र प्रकाशयुक्तामकरोत्। स्कभीयान् स्कम्भयितॄणाम् मध्ये श्रेष्ठं स स्कम्भनेन चिन्निरोधनसाधनेन सामर्थ्येनैव चास्कम्भ। द्युलोकमवरुद्धमकरोत्। स्कम्भिः सौत्रो धातुः। लिटि तुजादीनामिति दीर्घः। चित्कम्भने नेत्यत्र संहितायां सलोपः। उत्पूर्वस्य स्तम्भेरुदः स्थास्तम्भोः। पा. ८-४-६१। इति सलोप उक्तः। चित्पूर्वस्य स्कम्भेरपि भवति च्छन्दोविषयत्वात्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०