मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् ७

संहिता

सच॑न्त॒ यदु॒षस॒ः सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् ।
आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥

पदपाठः

सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् ।
आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥

सायणभाष्यम्

यद्यदोषस उषः कालाः सूर्येण सूर्यात्मकेनेन्द्रेण सचन्त सङ्गच्छन्ते। सच समवाये भौवादिकः। तदानीमस्य स्वभूताः केतवः सर्वस्य प्रज्ञापका रश्मयशित्राम् नानावर्णां रां रायं श्रियमविन्दन्। अलभन्त। पुनरुदयानन्तरं यद्यदा दिवो नक्षत्रं न ददृशे न दृश्यते। दृशेः कर्मणि लिट्। यद्योगादनिघातः। तदानीं यतः। इणः शत्रन्तस्य शसि शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम्। सर्वत्र गच्छतोऽस्य रश्मीन्नकिर्न किश्चिन्नुवेद। जानाति। एतदद्धा सत्यमेव॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११