मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् १०

संहिता

स॒ध्रीची॒ः सिन्धु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् ।
अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥

पदपाठः

स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् ।
अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥

सायणभाष्यम्

सध्रीचीः। सहस्य सध्रिरिति सध्रीत्यादेशः। अञ्चतेश्चोपसङ्ख्यानमिति ङीप्। अलोपदीर्थौ। वा छन्दसीति पूर्वसवर्नदीर्घः। सहाञ्चनाः सहगमना आपः सिन्धुं समुद्रं भर्तारमायन्। आगच्छन्। तत्र दृष्टान्तः। उशतीरिव यथा कामयमानाः स्त्रियः स्वपतिमभिगच्छन्ति तद्वत्। जारः शत्रूणां जारयिता पूर्भिदिन्द्रः सनाच्चिरादेवासामपामारितः प्रेरकत्वेन स्वामी भवति। हे इन्द्र अस्मे अस्माकं स्वभूतानि पार्थिवा पार्थिवानि वसूनि धनवत्प्रीणयितॄणि हवींषि पूर्वीर्बह्व्यः सून्रृता वाचः स्तुतिलक्षणाश्च ते त्वदीयमस्तं गृहमा जग्मुः। आगच्छन्तु। यद्वा। अस्मदीयाः स्तुतयस्ते गृहं गच्छन्तु। अस्माकं गृहं त्वदीयानि पार्थिवानि धनान्यभिगच्छन्तु। गमेश्छन्दसि सार्वकालिको लिट्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११