मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् १

संहिता

इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥

पदपाठः

इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः ।
हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥

सायणभाष्यम्

इन्द्र पिबेति दशर्चं त्रयोदशं सूक्तं त्रैष्टुभमैन्द्रं नभः प्रभेदनो नाम विरूपगोत्र ऋषिः। तथा चानुक्रम्यते। इन्द्र पिब नभः प्रभेदेन इति। गतो विनियोगः॥

हे इन्द्र त्वं प्रतिकामं ये ये कामास्तांस्तान्प्रति। अव्ययीभावसमासः। तस्य स्वरः। यथेच्छं सुतस्याभिश्य्हुतस्य यो भागस्तुभ्यं दातव्यस्तम् बिब। आमन्त्रितस्याविद्यमानत्वेन पादादित्वाद निघातः। प्रातः सावः प्रातःसवनेऽभिषूयमाणः सोमस्तव हि। तृतीयार्थे षष्ठी। त्वयैव पूर्वपीतिः प्रथमत एव पातव्यः। यद्वा। प्रातः सावः। सप्तम्याः सुः। प्रातः सवने तवैव प्रथमपानं खलु। ऐन्द्रवायुवग्रहे ह्यादित एवेन्द्रः पिबति। तत्पुरुषे दासीभारदित्वात्पूर्वपदान्तोदात्तत्वम्। यद्वा। बहुव्रीहिः। ततो हे शूर समर्थ त्वं शत्रून्हन्तवे हन्तुं हर्षस्व। हृष्टो भव। अथ ते त्वदीयानि वीर्या वृत्रहननादिलक्षणानि वीर्याण्युक्थेभिरुक्थैः शस्त्रैः प्र ब्रवाम। प्रकर्षेण वदाम॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२