मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् २

संहिता

यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।
तूय॒मा ते॒ हर॑य॒ः प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥

पदपाठः

यः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ ।
तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥

सायणभाष्यम्

हे इन्द्र मनसोऽक्पि जवीयानतिशयेन गन्ता ते त्वदीयो यो रथोऽस्ति तेन रथेन सोमपेयायास्मदीयं सोमं पातुमा याहि। आगच्छ। पा पाने। भावेऽचो यत्। ईद्यतितीत्वम्। आर्धधातुकलक्षणो गुणः। कृदुत्तरपदप्रकृतिस्वरत्वम्। तथा ते त्वदीया हरयो रथे संयुक्ता अश्वास्तूयं क्षिप्रमाभिमुख्येन प्र द्रवन्तु। प्रगच्छन्तु। व्रुषभिः सेक्तृभिर्येभिर्यैरश्वैर्मदन्दमानो मोदमानः सन् यासि गच्छसि। हरी इन्द्रस्येति वचनादिन्द्रस्य द्वावेवाश्वाविति न चोदनीयं आ त्वा सहस्रमा शतमित्यादिनिगमान्तरे दर्शनात्। ऋ. ८-१-२४॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२