मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् ३

संहिता

हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥

पदपाठः

हरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ ।
अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥

सायणभाष्यम्

हे इन्द्र हरित्वता। हरिच्छब्दान्मतुपो झय इति वत्वम् । हरिद्वर्णयुक्तेन सूर्यस्य वर्चसा तेजसा तत्सदृशैः श्रेष्ठैः प्रशस्यतमैरात्मीयै रूपैस्तन्वमात्मीयं शरीरं मदीयं वा। यद्वा। तायत इति तनूर्यज्ञः। तं स्पर्शयस्व। तेजोयुक्तं कुरु। किञ्च सध्रीचीनः। विभाषाञ्चेरदिक् स्त्रियामिति खप्रत्ययः। मरुद्भिः सहाञ्चनस्त्वं सखिभिः सखिभूतैरस्माभिर्हुवान आहूयमानः सन्निषद्य यज्ञे निषण्णो भुत्वा मादयस्व। सोमपानेन हृष्टो भव॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२