मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् ६

संहिता

इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥

पदपाठः

इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥

सायणभाष्यम्

हे इन्द्र ते त्वदर्थं पात्रं चमसादिकं सनवित्तम्। अस्माभिश्चिरादेव लब्धम् । विद्लृलाभे। कर्मणि निष्था। हे शतक्रतो बहुकर्मन्निन्द्रैनैतेन पात्रेण सोमं पिब। यतो मदिरस्य मदकरस्य मध्वो मधुनः सोमस्याहावः पानस्थानीयपात्रविशेशः पूर्णः पूरितोऽभुत्। ह्वेञ् स्पर्धायाम्। निपानमाहावः। पा. ३-३-७४। इति नोपातितः। स्तुतिभिराहूयमाना देवा अत्र सोमम् पिबन्तिति। थाथादिस्वरः। यमिद्यमाहावमेव विश्वे सर्वे देवा आभिहर्यन्ति। अभिकामयन्ते। हर्य गतिकान्त्योः भौवादिकः। यद्योगात्तिङो निघाताभावे तिङि चोदात्तवतीति गतेर्निघातः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३