वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।
अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥
वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते ।
अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥
हे इन्द्र वृषभ कामानां वर्षक हितप्रयसः। प्रय इत्यन्ननाम प्रीणनकारित्वात्। सम्भृतहविष्का जनासो जनाः पुरुधा बहुधा। हिरवधारने। त्वामेव विह्वयन्ते। विविधमाह्वयन्ति। ह्वेञ् स्पर्थायाम्। निसमुपविभ्यो ह्व इत्यात्मनेपदम्। अस्माकं स्वभुतानीमेमानि सवना सवनानि ते त्वदर्थं मधुमत्तमान्यतिशयेन सोमवन्ति भुवन्। अभवन्। तस्मात्त्वं तेषु सवनेषु हर्य। सोमान्कामयस्व॥७॥