मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् ८

संहिता

प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।
स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ॥

पदपाठः

प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि॑ । प्र । नू॒नम् । वी॒र्या॑ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ ।
स॒ती॒नऽम॑न्युः । अ॒श्र॒थ॒यः॒ । अद्रि॑म् । सु॒ऽवे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म॑णे । गाम् ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीयानि प्रथमादितः कृतानि पूर्व्याणि पुरातनानि च वीर्यावीर्याणि नूनमिदानीं प्र वोचम्। प्रकर्षेण वदामि। एकः प्रशब्दः पूरणः। वोचम् । लुङि ब्रवो वचिः। च्लेरङ्। कानि तानि। सतीनमन्युः। सतीनमित्युदकनाम। उदकाभिवर्षणबुद्धियुक्तस्त्वमिन्द्रं मेघमश्रथयः। वज्रेणाहिंसीः। ब्रह्मणे बृहस्पतये गां पणिभिरपहृतां सुवेदनां सुश्ठु ज्ञापनीयामकृणोः अकरोरित्यादीनि॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३