तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते ।
दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥
तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ ।
दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥
विष्णुरेतन्नामकः। व्याप्तो यज्ञो वा। मधुनो मदकरस्य सोमस्यांशुं लताखण्डं दधन्वान् प्रेरयन्। धवेर्गत्यर्थस्य क्वसाविदित्त्वान्नुमागमे कृते वलि लोपः। ओजसा स्ववीर्येण सञ्जातमस्येन्द्रस्य तं महिमानं वि रप्यते। विविधं शब्दयति। स्तौति। मघवा धनवान् सयावभिः। यातेरातो मनिन्निति क्वनिप्। सहगन्तृभिर्देवेभिर्देवैर्मरुद्भिश्च व्रुत्रम् जघन्वान् हतवानिन्द्रो वरेण्यः सर्वैर्वरणियः सम्भजनीयोऽभवत्॥२॥