मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११३, ऋक् ३

संहिता

वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ ।
विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥

पदपाठः

वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ ।
विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥

सायणभाष्यम्

युधये योधनायायुधायुधानि वज्रादीनि बिभ्रद्धारयन्निन्द्रस्त्वम् यद्यदानिनाहन्तव्येन वृत्रेण समस्थिथाः सहस्थाः। तिष्ठतेर्लुङि समवप्रविभ्यह् स्थ इत्यात्मनेपदम्। स्थाघ्वोरिच्चेति सिचः कित्त्वमिकारश्चान्तादेशः। ह्रस्वादङ्गादिति सिचो लोपः। यद्योगादनिघातः। तिङि चोदात्तवतीति गतेर्निघातः। तदाविदे। क्रुत्यार्थे केन्प्रत्ययः। तव वृत्रवधादिकं वीर्यं प्रज्ञापयितुं शंसम्। अशंसम् । शस्त्रैरहं स्तौ मि। शन्सु स्तुतौ। लङ्। वाक्यभेदादनिघातः। किञ्च हे उग्रोद्गूर्णबल आत्रास्मिन्काल एव तेत्वदीयम् महिमानमिन्द्रियं वीर्यं च विश्वे सर्वे मरुतस्त्मना सहैवावर्धन्। वर्नलोपश्छान्दसः। अवर्धयन्। मरुतो हीन्द्रस्य वीर्यं भवति॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४