इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ ।
वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥
इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ ।
वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥
अत्रास्मिन्काल एव विरप्शिनो महतो विविधं शब्दायमानस्य वर्धायतः शत्रून्हिंसत इन्द्रस्य तविषीभ्यः। षष्ठ्यर्थे चतुर्थी। बलानां मन्यवे प्रख्यापनायारहयन्त। आपो निरगच्छन्। रहिर्गत्यर्थः। उग्र उद्गूर्णः सोऽप उदकानि बिभ्रतं धारयन्तं तमसा परीवृतं परितो वेष्टितम्। वृणोतेः कर्मणि क्तः। गतिरनन्तर इति स्वरः। संहितायामुपसर्गस्य घञि। पा. ६-२-१२२। इति दीर्घः। तं वृत्रं यद्यस्मिन्काल ओजसा स्ववीर्येण व्यवृष्चत् अत्यर्थमवधीत्॥६॥