मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११३, ऋक् ९

संहिता

भूरि॒ दक्षे॑भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभि॑ः स॒ख्यानि॒ प्र वो॑चत ।
इन्द्रो॒ धुनिं॑ च॒ चुमु॑रिं च द॒म्भय॑ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥

पदपाठः

भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ ।
इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥

सायणभाष्यम्

हे स्तोतारः दक्षेभिर्वर्धनहेतुभिरृक्वभिः। छन्दसीवनिपाविति वनिप्प्रत्ययः। अयस्मयादित्वेन भत्वाज्जश्त्वाभावः। पदत्वात्कुत्वम्। का. १-४-२०। मन्त्रयुक्तैः सख्येभिः। तदर्हतीत्यर्थे छन्दसि चेति यत्प्रत्ययः। सख्युरिन्द्रस्य योग्यैर्वचनेभिर्वचनैः स्तोत्रैः सख्यानि स्तुत्यस्तोतृलक्षणान्यभिलक्ष्य भूरि बहुवारमिन्द्रं प्रवोचत। प्रब्रूत। अभिष्टुत। इन्द्रस्तु दभीतय एतन्नामकाय राजर्षये धुनिं च चुमुरिं चैतन्नामकौ द्वावसुरौ दम्भयन् हिंसञ्श्रद्धामनस्या। मनः शब्दात्क्यच्। श्रद्धयुक्तया मनस इच्छया शृणुते। युश्माभिः कृतानि स्तोत्राणि शृणोति॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५