मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११४, ऋक् ५

संहिता

सु॒प॒र्णं विप्रा॑ः क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति ।
छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥

पदपाठः

सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।
छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥

सायणभाष्यम्

विप्रा मेधाविनः कवयः क्रान्तप्रज्ञा मनुष्याः सुपर्णम् सुपतनमेकं सन्तं परमात्मानं वचोभिः स्तुतिलक्षणैर्वचनैर्बहुधा बहुप्रकरं कल्पयन्ति। कुर्वन्ति। किञ्च त एव कवयोऽध्वतेषु यज्ञेषु च्छन्दांसि गायत्र्यादीनि सप्त च्छन्दांसि दधतः स्तोत्रशस्त्रादिना धरयन्तो द्वादशसङ्ख्याकान्सोमस्य ग्रहान् ग्रहणसाधनानि पात्राण्युपांश्वन्तर्यामादीनि मिमते। निर्मिमते। ग्रहान्। गृह्यत एभिरिति ग्रहाः। ग्रहवृदृनिश्चिगमश्चेति करनेऽप्प्रत्ययः। सोमस्येति कर्मणि षष्ठी। द्वादशेत्यत्यसङ्ख्या। पा. ६-३५। इति पूर्वपदप्रकृतिस्वरत्वम्॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६