मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११४, ऋक् ६

संहिता

ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् ।
य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥

पदपाठः

ष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् ।
य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥

सायणभाष्यम्

पूर्वं सामान्येन यज्ञग्रहानुक्त्वेदानीं सर्वग्रहादिपूर्वको यज्ञोऽभिधीयते। षट् त्रिंशान्। द्वावुपांश्वन्तर्यामौ। ऐन्द्रवायवादयस्त्रयोद्विदेवत्यग्रहाः। द्वौ शुक्रामन्थिनौ। आग्रयण उक्थ्यो ध्रुवश्चेति त्रयः। ऋतुग्रहाद्वादश। ऐन्द्राग्नौ वैश्वदेवश्च द्वौ। त्रयो मरुत्वतीयाः। एको माहेन्द्रः। आदित्यसावित्रौ द्वौ। वैश्वदेवः पात्नीवतो हारियोजन इति त्रयो ग्रहाः। एवं षट् त्रिंशद्भवन्ति। अत्यग्निष्टोमे पूर्वे षट् त्रिंशद्ग्रहा द्वावंश्वदाभ्यौ दधिग्रहः षोडशीति चेति चत्वारः। एतांश्चत्वारिंशत्सङ्ख्याकान्ग्रहान्कलयन्तः सोमेन पूरयन्तः। किञ्चाद्वादशम् । आङ्मर्यादाभिविध्योः। पा. २-१-१३। इत्यव्ययीभावसमासः। तस्य स्वरः। द्वादशसङ्ख्याकप्रौगादिशस्त्रसमाप्तिपर्यन्तं छन्दांसि गायत्र्यादीनि दधतः सन्तः शस्त्रादिरूपेण धारयन्तः कवयो मनीषा। तृतीयाया आकारः। मनीषया बुद्ध्यैवं यज्ञं विमाय निर्माय रथम् । रमन्त्यत्रेति रथो यज्ञः । तं रथं यज्ञमृक्सामाभ्यां प्र वर्तयन्ति। प्रकर्षेन सम्पादयन्ति । चतुर इत्यत्र चतुरः शसीत्यन्तोदात्तत्वम्॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७