मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११४, ऋक् ८

संहिता

स॒ह॒स्र॒धा प॑ञ्चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् ।
स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥

पदपाठः

स॒ह॒स्र॒धा । प॒ञ्च॒ऽद॒शानि॑ । उ॒क्था । याव॑त् । द्यावा॑पृथि॒वी इति॑ । ताव॑त् । इत् । तत् ।
स॒ह॒स्र॒धा । म॒हि॒मानः॑ । स॒हस्र॑म् । याव॑त् । ब्रह्म॑ । विऽस्थि॑तम् । ताव॑ती । वाक् ॥

सायणभाष्यम्

सहस्रधा सहस्रसङ्ख्याकेषु ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु पञ्चदशानि चक्षुः श्रोत्रं मनो वाक् प्राण इत्येतानि पञ्च। तदाधारत्वेन मातापित्रोः सकाशादागतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि भूतानि मिलितानि दश। एवं पञ्चदशसङ्ख्याकान्युक्थान्युत्कृष्टान्यङ्गानि विद्यन्ते प्राणिदेहेषु जातेषु। द्यावापृथिवी। षष्ठीद्विवचनस्य सुपां सुलुगिति पूर्वसवर्नदीर्घः। द्यावापृथिव्योर्यावद्यत्परिमाणमस्ति तावदित्तत्परिमाणमेवात्माधिष्ठितं प्राणिदेहजातं भवति। यावत्तावच्छब्दयोर्यत्तदेतेभ्यः परिमाणे वतुपि। पा. ५-२-३९। आ सर्वनाम्नः। पा. ६-३-९१। इति दीर्घः। किञ्च सहस्रधा सहस्रसङ्ख्याकेषु सदस्रं महिमानः सहस्रसङ्ख्याका महान्तो व्यवहारविशेषा भवन्ति। प्रतिविषयं प्रतिलक्षनं दर्शनश्रवणादिव्यवहारनिष्पत्तेः। सहस्रधेत्यत्र विधार्थे धाप्रत्ययः। ब्रह्म जगत्कारनं वस्तु यावन्नानाविधाप्राणिदेहरूपेण यावत्परिमाणं भुत्वा विष्ठितं विशेषेण स्थितं वाक् तावती तत्परिमाणा भवति। एकैकस्याभिधेयार्थस्यैकैकनामापेक्षनात्। अन्यत्रापि श्रूयते। सर्वाणि रूपणि विचिन्त्य धीरो नामानि कृत्वाभिवदन्यदास्त इति। सहस्रधा पञ्चदशान्युक्थेति पञ्च हि दशतो भवन्तीत्यादिकमारण्यकमत्रानुसन्धेयम्। ऐ. आ. १-३-८॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७