मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११४, ऋक् १०

संहिता

भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः ।
श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥

पदपाठः

भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ ।
श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥

सायणभाष्यम्

एके केचनाश्वा भूम्याः पृथिव्याः। अनेन द्युलोकोऽप्युपलक्श्यते। द्युलोकस्य चान्तं पर्यन्तं परि चरन्ति। तदानीं सर्वत आगच्छन्ति। तदा च तेऽश्वा रथस्य धूर्षु युगादिभारेषु युक्तासो युक्ताः सन्तोऽस्थुः। तिष्ठन्ति। एभ्योऽश्वेभ्यः श्रमस्य दायम् । दो अवखण्डने। घञ्। कर्षात्वत इत्यन्तोदात्तत्वम्। शरमस्य नाशकं घासादिकं वि भजन्ति। देवाः प्रयच्छन्ति। यदा यस्मिन्काले यमो नियतां सूर्यो हर्म्ये हर्म्यस्थानीये रथे हितो निहितो भवति। तदैते भजन्तीत्यर्थः॥१०॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७