मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् १

संहिता

पिबा॒ सोमं॑ मह॒त इ॑न्द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हन्त॑वे शविष्ठ ।
पिब॑ रा॒ये शव॑से हू॒यमा॑न॒ः पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ॥

पदपाठः

पिब॑ । सोम॑म् । म॒ह॒ते । इ॒न्द्रि॒याय॑ । पिब॑ । वृ॒त्राय॑ । हन्त॑वे । श॒वि॒ष्ठ॒ ।
पिब॑ । रा॒ये । शव॑से । हू॒यमा॑नः । पिब॑ । मध्वः॑ । तृ॒पत् । इ॒न्द्र॒ । आ । वृ॒ष॒स्व॒ ॥

सायणभाष्यम्

पिबेति नवर्चं चतुर्थं सूक्तं त्रैष्तुभमैन्द्रम् । स्थूरनाम्नह् पुत्रोऽग्नियुताख्य ऋशिरग्नियूपाख्यो वा। तथा चानुक्रम्यते। पिब स्थौरोऽग्नियुतोऽग्नियूपो वेति। गतो विनियोगः॥

हे इन्द्र त्वं महते प्रभूतायेन्दियायेन्द्रस्यात्मनो जुश्टाय वीर्याय सोममस्माभिर्दीयमानं पिब। इन्द्रियमिन्द्रलिङ्गेत्यादिनेन्द्रिय शब्दो यजन्तत्वेन निपातितः। हे शविष्ठातिशयेन प्रवृद्ध वृत्राय हन्तवे वृत्रम् हन्तुं सोमं पिब। क्रियाग्रहनं कर्तव्यमिति व्रुत्रस्य सम्प्रदानत्वम्। तथा हूयमानोऽस्माभिराहूयमानस्त्वं राये धनाय। ऊडिदमित्यादिना विभक्तेरुदात्तत्वम्। शवसेऽन्नाय। धनान्नयोः प्रदानाय सोमं पिब। मध्वो मदकरान्सर्वान्सोमान्पिब। वा छन्दसिति पुर्व सवर्नदीर्घाभावः। अनन्तरं हे इन्द्र तृपत्तृप्तो भवन्ना वृशस्व। अस्मदभिलषितान्यासिञ्च। ददस्व। तृपत्। तृन्प तृप्तौ तौदादिकः। अनित्यमागमशासनमिति नुमभावः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०