म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु ।
म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥
म॒मत्तु॑ । त्वा॒ । दि॒व्यः । सोमः॑ । इ॒न्द्र॒ । म॒मत्तु॑ । यः । सू॒यते॑ । पार्थि॑वेषु ।
म॒मत्तु॑ । येन॑ । वरि॑वः । च॒कर्थ॑ । म॒मत्तु॑ । येन॑ । नि॒ऽरि॒णासि॑ । शत्रू॑न् ॥
हे इन्द्र त्वा त्वां दिव्यो दिवि भवः सोमो ममत्तु। आत्मीयकल्लप्रदानेन मादयतु। देवा ह्यारपक्षे सोमस्य कलां पिबन्ति। मदेर्लोटि व्यत्ययेन श्लुः। भीह्रीत्यादिना। पा. ६-१-१९२। पितः पूर्वस्योदात्तत्वम्। तथा पार्थिवेषु प्रुथिव्याम् भवेशु देवयजनेषु यः सोमोऽस्माभिः सूयते अभिषूयते सोऽप्यस्माभिर्दत्तो ममत्तु। त्वां हर्षयतु। येन सोमेन वरिवो वरणीयं धनख् चकर्थ कृतवानसि स च ममत्तु। करोतेर्लिट्। यद्योगादनिघाते लित्स्वरः। किञ्च येन शत्रून्निरिणासि निर्गमयसि। सोऽपि ममत्तु। त्वां मादयतु। रिणासि। री गतिरेषनयोः क्र्यादिः। प्वादीनां ह्रस्वत्वम्॥३॥