मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् ४

संहिता

आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्ध॑ः ।
गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्व॑ः स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥

पदपाठः

आ । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । या॒तु॒ । इन्द्रः॑ । वृषा॑ । हरि॑ऽभ्याम् । परि॑ऽसिक्तम् । अन्धः॑ ।
गवि॑ । आ । सु॒तस्य॑ । प्रऽभृ॑तस्य । मध्वः॑ । स॒त्रा । खेदा॑म् । अ॒रु॒श॒ऽहा । आ । वृ॒ष॒स्व॒ ॥

सायणभाष्यम्

द्विबर्हा द्वयोर्लोकयोः परिवृढः। यद्वा। द्वाभ्यां स्तुतशस्त्राभ्यां वर्धनीयः। व्रुहेर्वर्धनार्थस्य कर्तरि कर्मणि वासुन्। अमिनः। अमतेर्गत्यर्थादौणादिक इनच्। सर्वत्र गन्ता। यद्वा। कान्त्यर्थात्। सर्वैः काम्यमानः। अत एव वृषाभिलषितानां वर्षक इन्द्रः परिषिक्तं वसतीवरीभिः परितः सिक्तमन्धोऽस्मदीयं सोमलक्षणमन्नं प्रति हरिभ्यामेतन्नामकाभ्यामश्वाभ्यां सहा यातु। आगच्छ्तु। आथ प्रत्यक्षः। हे इन्द्र अरुशहा। अरुशाः शत्रवः। तेषां हन्ता। अर्तेरौणादिक उशन्। बहुलं छन्दसीति हन्तेः क्विप्। सत्रा। सप्तम्याः डादेशः। अस्मदीये सत्रे यज्ञे गव्यानडुहे चर्मणि सुतस्याभिषुतस्य प्रभृतस्य पात्रेषु प्रहृतस्य। हृग्रहोर्भः। ईदृशस्य मध्वो मदकरस्य सोमस्य पानेन हृष्टः सन् खेदां खिद्यमानानां शत्रूणामुत्खित्तय आभिमुख्येन वृषस्व। वृष इवाचर। वृषशब्दादाचारार्थे क्विप्। व्यत्ययेनात्मने पदम्। खेदाम्। खिद दैन्ये। कर्मणि घञन्तस्यामि नुडागमाभावाश्छान्दसः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०