मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् ६

संहिता

व्य१॒॑र्य इ॑न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः ।
अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥

पदपाठः

वि । अ॒र्यः । इ॒न्द्र॒ । त॒नु॒हि॒ । श्रवां॑सि । ओजः॑ । स्थि॒राऽइ॑व । धन्व॑नः । अ॒भिऽमा॑तीः ।
अ॒स्म॒द्र्य॑क् । व॒वृ॒धा॒नः । सहः॑ऽभिः । अनि॑ऽभृष्टः । त॒न्व॑म् । व॒वृ॒ध॒स्व॒ ॥

सायणभाष्यम्

हे इन्द्र अर्यः स्वामी त्वं श्रवांस्यन्नानि। श्रव इत्यन्ननाम। अस्मभ्यम् वि तनुहि। विस्तारय। प्रयच्छ। तनोतेर्लोट्युतश्च प्रत्ययाच्छन्दसि वावचनम्। पाल् ६-४-१०६-१। इति हेर्लुगभावः। तथाभिमातीः। अभितो मातिर्मानं येषाम् तेऽभिमातयह् शत्रवः। तान्प्रत्योज आत्मीयं वीर्यं स्थिरेव स्थिराण्येव धन्वनो धनूंषि च विस्तारय। तैः शत्रूञ्जहीत्यर्थः। अपि चास्मद्र्यगस्मदभिमुखाञ्चनः। विष्वग्देवयोश्च टेरद्र्यञ्चतावित्यद्र्यादेशः। पा.-६-३-९२। अद्रिसध्र्योरन्तोदात्तत्वेन निपातनात्। पा. ६-३-९५-१। उदत्तस्वरितयोर्यन इति धातोरकारस्यानुदात्तस्य स्वरितत्वम्। सहोभिरात्मीयैर्बलैर्वावृधानः प्रवृद्धः अत एवानिभृष्टः शत्रुभिरपरिभवनीयस्त्वं तन्वमात्मीयं शरीरं वावृधस्व। वर्धय। यद्वा। तन्वम्। तन्यत इति तनूर्यज्ञह्। तं वर्धय। त्वदागमनेन हि यज्ञो वर्धते॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१