मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् १

संहिता

न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ ।
उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥

पदपाठः

न । वै । ऊं॒ इति॑ । दे॒वाः । क्षुध॑म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि॑तम् । उप॑ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः॑ ।
उ॒तो इति॑ । र॒यिः । पृ॒ण॒तः । न । उप॑ । द॒स्य॒ति॒ । उ॒त । अपृ॑णन् । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥

सायणभाष्यम्

नवा इति नवर्चं पञ्चमं सूक्तम् । भिक्षुर्नामाङ्गिरस ऋषिः। प्रथमाद्वितीये जगत्यौ शिष्टाः सप्त त्रिष्टुभः। अत्र धनस्यान्नस्य च दानम् स्तूयते। अतस्तद्दैवत्यमिदम्। तथा चानुक्रान्तम्। न वा उ भिक्षुर्धनान्नदानप्रशंसाद्ये जगत्याविति। गतो विनियोगः॥

भिक्षुः प्रथमं व्यतिरेकमुखेनान्नदानं प्रशंसति। देवा वै देवाह् खलु सर्वेषाम् क्षुधं न ददुः। न प्रायच्छन्। किन्तु वधमिद्वधमेव दत्तवन्तः। एतादृशीं वधरूपां क्षुधमन्नदानेन यः शमयति स दाता खलु। उ इति पूरनः। योऽदत्त्वा भुङ्क्ते तमाशितं भुञ्जानम् पुरुषमपि मृत्यवो मरनान्युप गच्छन्ति। समीपे यान्ति। आशितः कर्ता। पा. ६-१-२-७। इत्याद्युदात्तत्वम्। क्षुधार्त्तानां भोक्तॄणां च मरणं समानम्। किं दानेन धननाशरूपेण। अत आह । उतो। उतशब्दोऽप्यर्थे। पृणतः प्रयच्छतः। पुरुषस्य रयिर्धनं नोप दस्यति। नोपक्षीयते। दसु उपक्शये दैवादिकः। पृण दाने तौदादिकः। तस्य शत्रन्तस्य शतुरनुमो नद्यजादी इति विभक्तेराद्युदात्तत्वम्। दानप्रसङ्गेनादातारं दूषयति। अपृणन्नप्रयच्छन् पुरुशस्तु मर्डितारमात्मनः सुखयितारं न विन्दते। न कुत्रापि लभते। इह बन्धवोऽप्रदानान्न सुखयन्ति देवा अपि हविष्प्रदानाभावात्॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२