मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् २

संहिता

य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ ।
स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि॑न्दते ॥

पदपाठः

यः । आ॒ध्राय॑ । च॒क॒मा॒नाय॑ । पि॒त्वः । अन्न॑ऽवान् । सन् । र॒फि॒ताय॑ । उ॒प॒ऽज॒ग्मुषे॑ ।
स्थि॒रम् । मनः॑ । कृ॒णु॒ते । सेव॑ते । पु॒रा । उ॒तो इति॑ । चि॒त् । सः । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥

सायणभाष्यम्

यः पुरुषः स्वयमन्नवानप्याध्राय। आधार्यतेऽसावित्याध्रो दुर्बलः। तस्मै पित्वः पितूनन्नानि चकमानाय। चकमानः कान्तिकर्मा। रफिताय। रफतिर्हिंसार्थः। दारिद्र्येण हिंसितायोपजग्मुषे ग्रुहम् प्रत्यागतायातिशयेन मन आत्मीयमन्तः करणमदाने स्थिरं कृणुते कुरुते। मनः स्थैर्यकरणेन तं क्लेशयतीत्यर्थः। कृणुते। क्रुवि हिंसाकरणयोः। धन्विक्रुण्व्योरच्चेत्युप्रत्ययः। करोतेर्वाव्यत्ययेन श्नुः। विकरणस्वरः सति शिष्तोपि लसार्वधातुकस्वरं न बाधते। म. ६-१-१५८-११। इति लसार्वधातुकस्वरः। न केवलम् क्लेशकरणं अपि तु पुरा तस्य पुरस्तादेव सेवते भोगान्। सोऽपि मर्डितारमात्मनः सुखयितारं न विन्दते। न कुत्रापि लभते॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२