मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ४

संहिता

न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः ।
अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥

पदपाठः

न । सः । सखा॑ । यः । न । ददा॑ति । सख्ये॑ । स॒चा॒ऽभुवे॑ । सच॑मानाय । पि॒त्वः ।
अप॑ । अ॒स्मा॒त् । प्र । इ॒या॒त् । न । तत् । ओकः॑ । अ॒स्ति॒ । पृ॒णन्त॑म् । अ॒न्यम् । अर॑णम् । चि॒त् । इ॒च्छे॒त् ॥

सायणभाष्यम्

व्यतिकरणे निन्दामाह। स पुरुषः सखा न भवति यः पुरुषः सचाभुवे सर्वदा सहभवनशीलाय सचमानाय सेवमानायोपसर्जनीभूताय सख्ये सखिजनाय पित्वः पितूनन्नानि न ददाति न प्रयच्छति। स सुहृन्न भवतीत्यर्थः। अस्माददातुः सख्युः सोऽप प्रेयात्। अपगच्छेत्। यद्येनं परित्यज्य गच्छेत्। इण् गतौ लिङि यासुट्। तर्हि तदोको निवासः सदनं नास्ति। न भवति। सदनं हि बन्धुभिः परिव्रुतम्। स गतः पुरुषः पृणन्तमन्नादिकं प्रयच्छन्तमन्यमरणं चिदर्थं स्वामिनमेवेच्छेत्। कामयेत॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२