मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ५

संहिता

पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् ।
ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ॥

पदपाठः

पृ॒णी॒यात् । इत् । नाध॑मानाय । तव्या॑न् । द्राघी॑यांसम् । अनु॑ । प॒श्ये॒त॒ । पन्था॑म् ।
ओ इति॑ । हि । वर्त॑न्ते । रथ्या॑ऽइव । च॒क्रा । अ॒न्यम्ऽअ॑न्यम् । उप॑ । ति॒ष्ठ॒न्त॒ । रायः॑ ॥

सायणभाष्यम्

धनवन्तं पुरुषं दाने प्रेरयति। तव्याम्स्तवीयान्धनैरतिशयेन प्रवृद्धः पुरुषो नाधमानाय याचमानायातिथये पृणीयादित्। धनानि दद्यादेव। पॄ पालनपूरनयोः क्र्यादिः। प्वादीनां ह्रस्वः। यदि दद्यात् द्राघीयांसम् । दीर्घशब्दादीयसुनि प्रियस्थिरेत्यादिना द्राघीत्यादेशः। दीर्घतमं पन्थां पन्थानं सुकृतमार्गमनु पश्येत। अनुपश्येत्। व्यत्ययेनात्मनेपदम्। तत्र कारणमाह। रायो धन्नन्यो हि। आ उ। अवर्तन्ते खलु। एकत्र न तिष्ठन्तीत्यर्थः। तत्र दृष्टान्तः। रथ्येव यथा रथ्यानि। रथाद्यत्। पा. ४-३-१२१-। इति तस्येदमित्यर्थे यत्। रथ सम्बन्धीनि चक्राण्युपर्यधोभावेनावर्तन्ते तद्वदावृत्तिमेव दर्शय्ति। अन्यमन्यं पुरुषं धनान्युप तिष्ठन्त। उपतिष्ठन्ते। समवेतानि भवन्ति। उपाद्देवपूजासङ्गतिकरनेति। का. १-३-२५-१। आत्मनेपदम्। तस्माद्धनानि देयानीति भावः॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२