मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ८

संहिता

एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् ।
चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे स॒म्पश्य॑न्प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ॥

पदपाठः

एक॑ऽपात् । भूयः॑ । द्वि॒ऽपदः॑ । वि । च॒क्र॒मे॒ । द्वि॒ऽपात् । त्रि॒ऽपाद॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
चतुः॑ऽपात् । ए॒ति॒ । द्वि॒ऽपदा॑म् । अ॒भि॒ऽस्व॒रे । स॒म्ऽपश्य॑न् । प॒ङ्क्तीः । उ॒प॒ऽतिष्ठ॑मानः ॥

सायणभाष्यम्

अत्र पादशब्दो भागवचनः। एकपादेकभागधनः पुरुषो द्विपदो द्विगुनधनस्य मार्गं भूयः। तृतीयायाः सुः। भूयसा कालेन वि चक्रमे। विविधं गच्छति। वेः पादविहरणे। पा. १-३-४१। इत्यात्मनेपदम्। तथा द्विपात्पुरुषस्त्रिपादं त्रिभागधनं पुरुषं पश्चादभ्येति। अभिगच्छति। चतुष्पाच्चतुर्भागधनस्तु द्विपदाम्। बहुवचनादेकपादादय उपलक्ष्यन्ते। एकपादधनादीनां पङ्क्तीरभिस्वरेऽभिगमने सम्पश्यन् सम्यगीक्षनमाणः सन्नुपतिष्ठमान एति। गच्छमानो भवति। अन्योन्यापेक्शया सर्व उत्तमाधमाः। तस्मात्त्वमहमेव धनवानिति न मन्येः किन्त्वतिथिभ्यो धनानि ददस्वेत्यर्थः॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३