मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ९

संहिता

स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते ।
य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ॥

पदपाठः

स॒मौ । चि॒त् । हस्तौ॑ । न । स॒मम् । वि॒वि॒ष्टः॒ । स॒म्ऽमा॒तरा॑ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति॑ ।
य॒मयोः॑ । चि॒त् । न । स॒मा । वी॒र्या॑णि । ज्ञा॒ती इति॑ । चि॒त् । सन्तौ॑ । न । स॒मम् । पृ॒णी॒तः॒ ॥

सायणभाष्यम्

अतिथिभ्यो धनमप्रयच्छन्नपि मम भ्राता दास्यतिति चेत् तत्र हेतुमाह। समौ चिद्धस्तौ समावपि समं समानं न विविष्टः। कार्यं न व्याप्नुतः। विष्लैव्याप्तौ जौहोत्यादिकः। संज्ञापूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः। तथा संमातरा वत्सस्य मातरौ धेनू समे अपि समं समानं पयो न दुहाते। यमयोश्चित् सहजातयोः पुत्रओरपि समा समानि वीर्याणि न सन्ति। तस्माज्ज्ञातीचिदेकस्मिन्कुले सन्तौ जातावपि समं न पृणीतः। न प्रयच्छतः। तस्माद्यस्य धनमस्ति स एव दद्यादित्यर्थः॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३