मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् १

संहिता

अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ॥

पदपाठः

अग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ ।
स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥

सायणभाष्यम्

अग्ने हंसीति नवर्चं षष्ठं सूक्तममहीयुगोत्रस्योरुक्षयस्यार्षं गायत्रम्। रक्षोहाग्निर्देवता। तथा चानुक्रम्यते। अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं त्विति। मथ्यमानेऽग्नावजायमान इदमनुवक्तव्यम्। सूत्रितं च। अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणामिति सूक्तमावपेत। आ. २-१६। इति। प्रातरनुवाकाश्विनशस्त्रयोरपि गायत्रे छन्दसीदं सूक्तम्। सूत्रितं च। अग्ने हंस्यग्निं हिन्वन्तु नः। आ. ४-१३। इति। दशमेऽहनि धिष्ण्याङ्गाराभिविहरण आद्य जप्या। सूत्रितं च। परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणम्। आ. ८-१२। इति॥

हे शुचिव्रत पूतकर्मन् दीप्यमानतेजस्क हे अग्ने अत्रिणमत्तारं शत्रुं तमोरूपं नितरां हंसि। विनाशय। आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः। किं कुर्वन्। मर्त्येषु मनुस्येषु यजनानेष्वाभिमुख्येन दीद्यत् कर्मसिद्ध्यर्थं प्रकाशमनाः। दीदितिर्दीप्तिकर्मा। तथा स्व आत्मीये क्षये निवासभुत आहवनीयादिस्थाने दीप्यमानः। क्षयो निवासे। पा. ६-१-२-१। इत्याद्युदात्तत्वम्॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४