मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ३

संहिता

स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।
स्रु॒चा प्रती॑कमज्यते ॥

पदपाठः

सः । आऽहु॑तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।
स्रु॒चा । प्रती॑कम् । अ॒ज्य॒ते॒ ॥

सायणभाष्यम्

आहुत आभिमुख्येन हुतः। गतिरनन्तर इति गतेः प्रकृतिस्वरः। गिरा स्तुतिलक्षणया वाचेलेन्यः स्तोतव्यः सोऽग्निर्वि रोचते। अत्यर्थं दीप्यते। तथा प्रतीकं सर्वेषां देवानां पूर्वमेव स्रुचा घृतसहितयाज्यते। सिच्यते॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४