मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ४

संहिता

घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।
रोच॑मानो वि॒भाव॑सुः ॥

पदपाठः

घृ॒तेन॑ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु॑ऽप्रतीकः । आऽहु॑तः ।
रोच॑मानः । वि॒भाऽव॑सुः ॥

सायणभाष्यम्

अग्निर्घृतेन हविषा समज्यते। सम्यक् सिक्तो भवति। कीदृशः। मधुप्रतीको घृतप्रयुक्तावयवः आहुतः स्तुतिभिर्हविर्भिर्वा रोचमानो दीप्यमानः विभावसुः स्वदीप्त्या सर्वमाच्छादयन्। यद्वा। दीप्तिरेव धनम् यस्य सः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४