मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ६

संहिता

तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।
अदा॑भ्यं गृ॒हप॑तिम् ॥

पदपाठः

तम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ ।
अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥

सायणभाष्यम्

हे मर्ता ऋत्विजः अमर्त्यं मनुष्यधर्मरहितमगिं घृतेन हविषा सपर्यत। परिचरत। सपरशब्दः कण्ड्वादिः। कीदृशम् । अदाभ्यं कैश्चिदप्यहिंस्यम्। दभेश्चेति वक्तव्यम्। पा. ३-१-१२४-३। इति ण्यत्। गृहपतिं गृहस्य स्वामिनं यजमानरूपम्। पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५