मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ८

संहिता

स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्य॑ः ।
उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥

पदपाठः

सः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ ।
उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥

सायणभाष्यम्

हे अग्ने स त्वं प्रतीकेन त्वदवयवभूतेन तेजसा यातुधान्यो यातुधानीराक्षसीः प्रत्योष। प्रतिकूलं दह। उष दाहे भौवादिकः। लोटि हेर्लुक्। जातेरस्त्रीविषयात्। पा. ४-१-६३। इति यातुधानशब्दस्य ङीष्। उदात्तस्वरितयोर्यन इति स्वरितत्वम्। किं कुर्वन्। उरुक्शयेषु विस्तीर्णेषु निवासेष्वाहवनीयादिषु दीद्यद्दीप्यमानः॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५