मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ६

संहिता

न॒हि मे॑ अक्षि॒पच्च॒नाच्छा॑न्त्सु॒ः पञ्च॑ कृ॒ष्टयः॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

न॒हि । मे॒ । अ॒क्षि॒ऽपत् । च॒न । अच्छा॑न्त्सुः । पञ्च॑ । कृ॒ष्टयः॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

चनेति निपातसमुदायोऽप्यर्थे। पञ्च क्रुष्तयोऽपि निशादपञ्चमाश्चत्वारो वर्नाः पञ्च जनाः। यद्वा। देवमनुष्यादयः। मे मदीयमपक्षिपच्चक्शुः पतनम् दृष्टिसञ्चारं नह्यच्छान्त्सुः। न ह्यपवृण्वन्ति। न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति हि श्रुतेः। शत. १४-७-१-२३। छदि अपवारने। चुरादीनामिति वा ण्यन्तत्वादत्रण्यभावे लुङि हलन्तलक्षना व्रुद्धिः। पा. ७-२-३। यस्माद्बहुवारं सोममपाम्॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६