मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२०, ऋक् ४

संहिता

इति॑ चि॒द्धि त्वा॒ धना॒ जय॑न्तं॒ मदे॑मदे अनु॒मद॑न्ति॒ विप्रा॑ः ।
ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवा॑ः ॥

पदपाठः

इति॑ । चि॒त् । हि । त्वा॒ । धना॑ । जय॑न्तम् । मदे॑ऽमदे । अ॒नु॒ऽमद॑न्ति । विप्राः॑ ।
ओजी॑यः । धृ॒ष्णो॒ इति॑ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । दुः॒ऽएवाः॑ ॥

सायणभाष्यम्

इति चिद्ध्येवमेव खलु हे इन्द्र मदे मदे सोमपानजन्ये हर्षे सति धना शत्रुधनानि यजन्तं जयेन प्राप्नुवन्तम् त्वामनु पश्चात्। लक्षणेऽनोः कर्मप्रवचनीयत्वम्। विप्रा मेधाविनः स्तोतारो मदन्ति हृष्यन्ति यद्वा त्वामनुवदन्ति अनुक्रमेन स्तुवन्ति। मदतिः स्तुतिकर्मा। हि चेति निघातप्रतिषेधः। हे धृष्णो शत्रूणां धर्षयितरिन्द्र। त्रसिगृधिधृशिक्शिपेः क्नुः। ओजीयः। ओजस्विशब्ददीयसुनिविन्मतोर्लुगिति विनो लुक्। टेरिति टिलोपः। बलवत्तरम् अत एव स्थिरम् दृढं धनमा तनुष्व। अहितोऽस्मदर्थं विस्तारय। त्वा त्वां च मा दभन् मा हिंसन्तु दुरेवा दुर्गतयो यातुधाना राक्षसाः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः