मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२१, ऋक् २

संहिता

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

पदपाठः

यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

यः प्रजापतिरात्मदा आत्मनां दाता। आत्मानो हि सर्वे तस्मात्परमात्मन उत्पद्यन्ते। यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत्। यद्वा। आत्मनां शोधयिता। दैप् शोधने। आतो मनिन्निति विच्। बलदा बलस्य च दाता शोधयिता वा। यस्य च प्रशिषं प्रकृष्टं शासन्स्माज्ञां विश्वे सर्वे प्राणिन उपासते प्रार्थयन्ते सेवन्ते वा। शासु अनुशिष्टौ। शास इत्। पा. ६-४-३४। इत्युपधया इत्वम् । शासिवसिघसीनां चेति शत्वम्। क्रुदुत्तरपदप्रकृतिस्वरत्वम्। आसेरनुदात्तेत्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। तिङि चोदात्तवतिति गतिरनुदात्ता। तथा देवा अपि यस्य प्रशासनमुपासते। अपि चामृतममृतत्वम्। भावप्रधानो निर्देशः। यद्वा। अमृतम्। मरनं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम्। तदपि यस्य प्रजापतेश्छाया छायेव वर्ति भवति। मृत्युर्यमश्च प्राणापहारी छायेव भवति। तस्मै कस्मै देवायेत्यादि समानं पूर्वेण हविषा पुरोडाशात्मनेति तु विशेषः॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः