मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२१, ऋक् ३

संहिता

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

पदपाठः

यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

यो हिरण्यगर्भः प्राणतः प्रश्वसतः। अन प्राणने आदादिकः। शतुरनुम इति विभक्तेरुदात्तत्वम्। निमिषतोऽक्शिपक्ष्मचलनं कुर्वतः। अत्रापि पूर्ववद्विभक्तिरुदात्ता। जगतो जङ्गमस्य प्राणिजातस्य महित्वा महत्त्वेन । सुपां सुलुगिति तृतीयाया आकारः। माहात्म्येनैक इदद्वितीय एव सन्राजा बभूव ईश्वरो भवति। भवतेर्णलि लितीति प्रत्ययात्पूर्वस्योदात्तत्वम्। अस्य परिदृश्यमानस्य द्विपदो पादद्वययुक्तस्य मनुष्यादेश्चतुष्पदो गवाश्वादेश्च यः प्रजापतिरीशे ईष्टे। ईश ऐश्वर्ये आदादिकोऽनुदात्तेत्। लोपस्त आत्मनेपदेष्विति तलोपः। अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। अस्य । ऊडिदमितिदमो विभक्तिरुदात्ता। द्वौ पादौ यस्य स द्विपात्। सङ्ख्यासुपूर्वस्येति पादशब्दस्यान्त्यलोपः समासान्तः। भसंज्ञायां पादः पदिति पद्भावः। द्वित्रिभ्यां पाद्दन्नित्येकादेशविकृतस्यानन्यत्वादुत्तरपदान्तोदात्तत्वम्। स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया। बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरः। पूर्वपदं न्रः सङ्ख्यायाः। फि. २-५। इत्याद्युदात्तत्वम्। इदुदुपधस्य चाप्रत्ययस्येति वसर्जनीयस्य षत्वम्। ईदृशो यः प्रजापतिस्तस्मै कस्मा इत्यादि सुबोभं हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः