मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२१, ऋक् ६

संहिता

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

पदपाठः

यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने॒ इति॑ ।
यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

क्रन्दितवान्रोदितवाननयोः प्रजापतिरिति क्रन्दसी द्यवापृथिव्यौ। श्रूयते हि। यदरोदीत्तदनयो रोदस्त्वम्। तै. ब्रा. २-२-९-४। इति ते अवसा रक्षनेन हेतुना लोकस्य रक्षणार्थं तस्तभाने प्रजापतिना सृष्टे लब्धस्थैर्ये सत्यौ यं प्रजापतिं मनसा बुद्ध्याभ्यैक्षेतां आवयोर्महत्त्वमनेनेत्यभ्यपश्येताम्। ईक्ष दर्शने। लङ्यडादित्वादाद्युदात्तत्वम्। कीद्रुष्यौ द्यावापृथिव्यौ। रेजमाने राजमाने दीप्यमाने। आकारस्य व्यत्ययेनैत्वम्। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुकस्वरः। यद्वा। लिटः कानच्। फणाम् च सप्तानाम् । पा. ६-४-१२५। इत्येश्वाब्ह्यासलोपौ। छन्दस्युभयथेति सार्वधातुकत्वाच्छप्। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। यत्राधियस्मिन्नाधारभूते प्रजापतौ सूरः सूर्य उदित उदयं प्राप्तः सन् विभाति प्रकाशते। उत्पूर्वादेतेः कर्मणि निष्था। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। तस्मैकस्मा इत्यादि सुज्ञानम्॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः