मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२१, ऋक् ७

संहिता

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

पदपाठः

आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ।
ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

बृहतीर्बृहत्यो महत्यः। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। बृहन्महतोरुपसङ्ख्यानमिति ङीप उदात्तत्वम्। अग्निम्। उपलक्षणमेतत्। अग्न्युपलक्षितं सर्वं वियदादिभूतजातम्। जनयन्तीर्जनयन्त्यः तदर्थं बर्घं हिरण्मयाण्डस्य बर्भभूतं प्रजापतिं दधाना धारयन्त्य आपो हाप एव। विश्वमायन् सर्वं जगद्व्याप्न्य्वन् यद्यस्मात् ततस्तस्माद्धेतोर्देवानां देवादीनां सर्वेषां प्राणिनामसुः प्राणभूत एकः प्रजापतिः समवर्तत। समजायत। यद्वा। यद्यम् गर्भं दधाना आपो विश्वात्मनावस्थिताः ततो बर्भभूतात्प्रजापतेर्देवादीनां प्राणत्मको वायुरजायत। अथवा यत्। लिङ्गवचनयोर्व्यत्ययः। उक्तलक्षणाया आपो विश्वमावृत्य स्थिताः ततस्ताभ्योऽद्भ्यः सकाशादेकोऽद्वितीयोऽसुः प्रानात्मकः प्रजापतिः समवर्तत। निश्चक्राम। तस्मै कस्मा इत्यादि गतम्॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः